कश्मीरविकसनम् - ८०,००० कोटिरूप्यकाणां पद्धत्या केन्द्रसर्वकारः ।
जम्मू - कश्मीरस्य विकसनाय केन्द्र सर्वकारः ८०,००० कोटि रूप्यकाणि दास्यति इति उद्घोषः । मौलिकसौकर्यविकसनं स्वास्थ्यमण्डलविकसनम् इत्यादयः बृहत्यः विकसनपद्धत्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उद्घोषितम् ।
जलोपप्लवे
नष्टानां गृहाणां पुनर्निर्माणाय नष्टव्यवसायानां पुनःस्थापनाय च 7854
कोटि रूप्यकाणि अयच्छत् । जलोपप्लवनियन्त्रणाय अपि व्यवस्थाः भविष्यन्ति | अत्यधिकं धनं मार्ग - राजमार्गविकसनाय एव 42,611 कोटिरूप्यकाणि| ऊर्जपद्धतीनां कृते 11708 कोटिरूप्यकाणि दास्यति । आरोग्याय 49,000 कोटिः तथा
कार्षिकविकसनाय 529 कोटि: विनोदसञ्चाराय 2241 कोटिः च भवति । अभयार्थिनां
पुनरधिवासाय सुरक्षायै च 5263 कोटि: दीयते । 450 मेगावाट् बग्रिम्हार् जलवैद्युत पद्धतेः द्वितीयघट्टस्य उद्घाटनं कश्मीरे कुर्वन् प्रधानमन्त्री एव विकसनपद्धतीः उदघोषयत् ।
सुवचनम्
कर्तव्यो महदाश्रयः ।