निर्माणमण्डलश्रमिकेभ्यः भविष्यनिधिः।
नवदिल्ली - देशे निर्माणमण्डले विद्यमानेभ्यः श्रमिकेभ्य अपि भविष्यनिधि व्यवस्थायाः (P.F)आनुकूल्यं लप्स्यते। सामाजिक-स्वकीयमेखलासु प्रवर्तमानाः कर्मकराः एवास्य गुणभोक्तारः। अस्य प्रमाणपत्रं केन्द्रकर्मविभागमन्त्रालयात् बहिरानीतम्।
अमरावती आन्ध्राराजधानी ।
गुण्टूर् - आन्ध्राराज्यस्य नवीना राजधानी अमरावतीनाम्ना व्यवहरिष्य़ते।अस्याः शिलास्थापनं प्रधानमन्त्रिणा नरेन्द्रमोदिना गुण्टूरजनपदे कृष्णानदीतीरे कृतम्।