संस्कृत दिनाघोषः संपूर्णः
संस्कृतं
नित्यजीवनस्य भागः भवितव्यः
केरल सचिवः
कोट्टयम्
-
संस्कृत
भाषा नित्य जीवनस्य भागः भवेत् इति केरल राज्यस्य
वनं -
गतागत
विभागस्य मन्त्री तिरुवञ्चूर
राधाकृष्णः अवदत्। केरल
राज्यस्य ७ तम:
संस्कृतदिनाघोषस्य
उद्घाटनं कुर्वन्नासीत् सः। नित्यजीवने संस्कृत भाषाया:
आगमनेन
जनानां उन्नति:
शीघ्रमेव
भविष्यति। इदानीं केरले एव
प्रथम कक्ष्यायाः आरभ्य द्वादश
पर्यन्तं ऐच्छिक रूपेण भाषा
पठनाय अवसर:। इतर
भाषाणां माता संस्कृतम्
इत्यस्मात् इयं भाषा भारतस्य
अभिमानमेव। लोके विद्यमानानां
सर्वेषां ज्ञानानां प्रभवकेन्द्रम्
संस्कृत
भाषा एव। अतः संस्कृत भाषायाः
महत्वं प्रत्यभिज्ञातव्यम् ।
भारतस्य अभ्युन्नत्यर्थं
संस्कृतभाषापठनं सजीवं कर्तुं
प्रयत्न:
करणीय:
इत्यपि
सचिव:
उक्तवान् ।
भारते संस्कृत दिनाघोषः