सर्वकारीयवृद्धालयेषु ''वयो अमृतम्'' योजना अनुवर्तते ।
अनन्तपुरी- केरलराज्ये सर्वकारीयवृद्धालयेषु अन्तेवासिनां क्षेमाय कियमाणः आयुर्वेदपरिचर्या भवति "वयो अमृतम्'' । सामूह्यक्षेम-भारतीयचिकित्साविभागौ अस्याः योजनायाः कार्यकर्तारौ। प्रथमश्रेण्यां ५२ लक्षं रूप्यकाणि उपयुक्तानि । अधुना ५० लक्षं रूप्यकाणि योजनाम् अनुवर्तयितुम् सञ्चितानि । मधुमेह : रक्तातिमर्दः वातविकारः पक्षाघात : मनसम्मर्द : इत्यादीनां रोगाणां कृते सफलां आयुर्वेदचिकित्साम् उद्दिशति योजनेयम् ।