अनन्तपुरी:- पाठपुस्तकानि
मुद्रणं पूर्तीकृत्य छात्रेभ्यः इतः पर्यन्तं न लब्धम् इत्यनेनैव
संस्कृताधपकाः समरमार्गे पतिताः केरलसर्वकारस्य शैक्षिकमन्त्रिणा
अब्दुरब् महोदयेन पुस्तकप्राप्त्यर्थं यथासमयं किमपि न कृतं इति केरळ
संस्कृत अध्यापकफ़ेटरेशन् नेतारः अवदत् .
फ़ेटरेशन्
द्वारा आयोजिते समरे भुवत्पूर्व सजिवः सि दिवाकरः उद्घाटनं कृतवान्
वैदेशिक भाषायै कियत् प्राधान्यमस्ति भारते तावन्मात्र प्रधान्यमपि
नास्ति संस्कृतस्य इहि सः अवदत् चेन्नै नगरे केन्द्रियविद्यालय-परिसरे शिक्षक-कार्यशाला
संस्कृतभारती, केन्द्रियविद्यालयः च इति आभ्यां परस्पर-समाश्रये संस्कृतशिक्षकशिल्पशाला संपन्ना । अस्यां १०० विद्यालयस्य तथा बालभारती शिक्षकाः भागमवहन् । उद्घाटनसत्रे भाषमाणः संस्कृताभिमानी केन्द्रियविद्यालयस्य प्रांशुपालः श्रीवैद्यलिङ्गः संस्कृतभाषायाः महत्त्वं नितराम् अश्लाघत । संस्कृतभारत्याः पक्षतः मुख्यातिथिः आसीत् उत्तरतमिळ्नाडु-प्रान्तकार्यदर्शी श्रीहरीन्द्रः । सः कार्यक्रमस्य मुख्योद्धेशम् उपस्थाप्य समाजे संस्कृतभाषायाः अनिवार्यताम् उक्त्वा सर्वान् संस्कृत-प्राचारकार्ये योजयितुं प्रार्थयत ।विद्यालय-अध्यापकेभ्यः चालिते सत्रे हिन्दु-विद्यालयस्य प्रमुख-अध्यापकौ श्रीवासन् तथा श्रीराजा च संस्कृत-पाठने कथं पुरातन-शैल्या सह आधुनिक-पाठन-पद्धतिः आनेतुं शक्या इति सन्दर्शिनी-माध्यमेन उपस्थापितवन्तौ । उत्तरतमिळ्नाडु-बालभारती-प्रमुखा श्रीमतीविजी आदर्शशिबिरं परिचायितवती । आगस्ट्-मासे संपत्स्यमाने बालोत्सवे प्रमुख-अध्यापकानां दायित्वं कार्यशालायाम् अस्यां उद्घोषितम् । महासम्मेलने अध्यापकानां योगदानस्य अनिवार्यता तथा तेषां भागग्रहणं विशदतया चर्चितम् । समारोपसत्रस्य आध्यक्षं वहता उत्तरतमिळ्नाडु-उपाध्यक्षेण श्रीरामचन्द्रवर्येण पाठनं वैभवरीत्या कर्तुं मार्गाः उपस्थापिताः । शिक्षकेभ्यः प्रमाणपत्रं वितीर्य सुष्ठु निरूढा इयं कार्यशला प्रतिवर्षम् अनुवर्तेत इति सङ्कल्पेन अवसानं याता ।